प्रशालायाः संस्कृतदिनसमारोहः
दिनाङ्क २६ ऑगस्ट सोमवासरे अस्माकं प्रशालायाः संस्कृतविभागे संस्कृतदिनसमारोहः उपलक्ष्ये नृत्यनाट्याञ्जलिः कार्यक्रमः सञ्जातः। अस्मिन् कार्यक्रमे मुख्यातिथिरूपेण अस्माकं प्रशालायाः कमांडन्ट एअर विंग कमांडर यज्ञरामन् महोदयः आगम्य छात्राः मार्गदर्शनं अकरोत्। कार्यक्रमे प्रशालायाः मुख्याध्यापिका पूजा जोग महोदया, वरिष्ठाचार्यः श्याम नाङ्गरे, पर्यवेक्षकः सन्दिप पवार महोदयः तथा च सर्वे शिक्षकाः उपस्थिताः आसन्।
कार्यक्रमस्य आरम्भः सरस्वतीवन्दनाद्वारा सञ्जातः। कार्यक्रमस्य प्रास्ताविकं भाषणं प्रियाङ्का राजहंस महोदया कृतवती। संस्कृतभाषायाः उत्तमः भाषामाध्यमः सुभाषितम् अस्ति इति उक्तवती। सरस्वतीवन्दनानन्तरं छात्राः तुकाराममहाराजस्य ‘ पद्मनाभा नारायणा ‘ अभङ्गम् नृत्य तथा च गान् प्रकारेण प्रस्तुतीकृताः। तदनन्तरम् आदिशङ्कराचार्य विरचितः ‘कालभैरवाष्टकम् ‘ अगायन्। तदनन्तरम् ‘अमृतवाणी संस्कृतभाषा ‘ गीतम् अगायन्। तदनन्तरम् छात्राः ‘ भगवत् नर्तिकीयम् ‘ नाम संस्कृतलघुनाटिकायाः प्रस्तुतिम् अकुर्वन् । सम्पूर्ण कार्यक्रमस्य नियोजनं संस्कृतविभागस्य नवमी कक्षायाः छात्राः कृतवत्याः। सर्वे संस्कृतछात्राः कार्यक्रमे सहृदयं सोत्साहं सहभागम् अकुर्वन्।

